७.२३.४१

ततस्ते विमुखाः सर्वे पतिता धरणीतले ।
रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥

M N Dutt

There upon they were all defeated and fell dead on the ground and all their followers fled away from the field of battle to their homes.

पदच्छेदः

ततस्तेततस् (अव्ययः)–तद् (१.३)
विमुखाःविमुख (१.३)
सर्वेसर्व (१.३)
पतितापतित (√पत् + क्त, १.३)
धरणीतलेधरणी–तल (७.१)
रणात्रण (५.१)
स्वपुरुषैःस्व–पुरुष (३.३)
शीघ्रंशीघ्रम् (अव्ययः)
गृहाण्येवगृह (२.३)–एव (अव्ययः)
प्रवेशिताःप्रवेशित (√प्र-वेशय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तेविमु खाः र्वे
ति ता णी ले
णात्स्वपुरु षैः शी घ्रं
गृ हा ण्येप्र वेशि ताः