७.२३.४६

आगतस्तु पथा येन तेनैव विनिवृत्य सः ।
लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥

M N Dutt

And returning by the way by which he had come the Raksasa, stationed in the welkin, proceeded towards Lankā.

पदच्छेदः

आगतस्तुआगत (√आ-गम् + क्त, १.१)–तु (अव्ययः)
पथापथिन् (३.१)
येनयद् (३.१)
तेनैवतद् (३.१)–एव (अव्ययः)
विनिवृत्यविनिवृत्य (√विनि-वृत् + ल्यप्)
सःतद् (१.१)
लङ्काम्लङ्का (२.१)
अभिमुखोअभिमुख (१.१)
रक्षोरक्षस् (१.१)
नभस्तलगतोनभस्–तल–गत (√गम् + क्त, १.१)
ययौययौ (√या लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तु था ये
ते नैविनि वृत्य सः
ङ्काभिमु खो क्षो
स्त तो यौ