७.२४.२५

एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया ।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥

M N Dutt

Being thus addressed by his bewailing sister, the Ten-necked demon, consoling her in sweet words, said.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्तयाउक्त (√वच् + क्त, १.१)–तद् (३.१)
रक्षोरक्षस् (१.१)
भगिन्याभगिनी (३.१)
क्रोशमानयाक्रोशमान (√क्रुश् + शानच्, ३.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
सान्त्वयित्वासान्त्वयित्वा (√सान्त्वय् + क्त्वा)
तांतद् (२.१)
सामपूर्वम्सामन्–पूर्व (२.१)
इदंइदम् (२.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्त या क्षो
गि न्या क्रो मा या
ब्र वी त्सान्त्व यि त्वा तां
सा पूर्वमि दं चः