७.२४.३१

शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम् ।
दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः ॥

M N Dutt

Let that hero now speedily go to protect the Dandaka forest and the highly powerful Duşana shall be the commander of his forces.

पदच्छेदः

शीघ्रंशीघ्रम् (अव्ययः)
गच्छत्वयंगच्छतु (√गम् लोट् प्र.पु. एक.)–इदम् (१.१)
शूरोशूर (१.१)
दण्डकान्दण्डक (२.३)
परिरक्षितुम्परिरक्षितुम् (√परि-रक्ष् + तुमुन्)
दूषणोदूषण (१.१)
ऽस्यइदम् (६.१)
बलाध्यक्षोबलाध्यक्ष (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
महाबलःमहत्–बल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शी घ्रं च्छत्व यं शू रो
ण्ड कान्परिक्षि तुम्
दू णोऽस्य ला ध्य क्षो
विष्यति हा लः