७.२४.६

तासां निश्वसमानानां निश्वसैः संप्रदीपितम् ।
अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम् ॥

पदच्छेदः

तासांतद् (६.३)
निश्वसमानानांनिश्वसमान (√नि-श्वस् + शानच्, ६.३)
निश्वासैःनिश्वास (३.३)
सम्प्रदीपितम्सम्प्रदीपित (√सम्प्र-दीपय् + क्त, १.१)
अग्निहोत्रम्अग्नि–होत्र (१.१)
इवाभातिइव (अव्ययः)–आभाति (√आ-भा लट् प्र.पु. एक.)
संनिरुद्धाग्निपुष्पकम्संनिरुद्ध (√संनि-रुध् + क्त)–अग्नि–पुष्पक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता सां निश्व मा ना नां
निश्व सैः संप्र दीपि तम्
ग्नि होत्रमि वा भाति
संनि रु द्धाग्नि पुष्प कम्