७.२४.७

काचिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम् ।
स्मृत्वा मातॄः पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपि ।
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥

पदच्छेदः

काचिद्कश्चित् (१.१)
दध्यौदध्यौ (√ध्या लिट् प्र.पु. एक.)
सुदुःखार्तासु (अव्ययः)–दुःख–आर्त (१.१)
हन्याद्हन्यात् (√हन् विधिलिङ् प्र.पु. एक.)
अपिअपि (अव्ययः)
हिहि (अव्ययः)
माम्मद् (२.१)
अयम्इदम् (१.१)
स्मृत्वास्मृत्वा (√स्मृ + क्त्वा)
मातॄःमातृ (२.३)
पितॄन्पितृ (२.३)
भ्रातॄन्भ्रातृ (२.३)
पुत्रान्पुत्र (२.३)
वैवै (अव्ययः)
श्वशुरान्श्वशुर (२.३)
अपिअपि (अव्ययः)
दुःखशोकसमाविष्टादुःख–शोक–समाविष्ट (√समा-विश् + क्त, १.३)
विलेपुःविलेपुः (√वि-लप् लिट् प्र.पु. बहु.)
सहिताःसहित (१.३)
स्त्रियःस्त्री (१.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
का चि द्द ध्यौसु दुः खा र्ता न्यापि
हि मा यम् स्मृ त्वा मा तॄःपि तॄ न्भ्रा तॄ
न्पु त्रा न्वैश्वशु रापि दुः शो
मा वि ष्टावि ले पुःहि ताःस्त्रि यः