७.२४.९

हा कथं नु करिष्यामि भर्तारं दैवतं विना ।
मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् ॥

पदच्छेदः

हाहा (अव्ययः)
कथंकथम् (अव्ययः)
नुनु (अव्ययः)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
भर्तारंभर्तृ (२.१)
दैवतंदैवत (२.१)
विनाविना (अव्ययः)
मृत्योमृत्यु (८.१)
प्रसीदप्रसीद (√प्र-सद् लोट् म.पु. )
याचेयाचे (√याच् लट् उ.पु. )
त्वांत्वद् (२.१)
नयनय (√नी लोट् म.पु. )
मांमद् (२.१)
यमसादनम्यम–सादन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हा थंनु रि ष्यामि
र्ता रं दै तंवि ना
मृ त्योप्र सी या चे त्वां
मां सा नम्