७.२५.१८

विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः ।
तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् ॥

पदच्छेदः

विभीषणस्तुविभीषण (१.१)–तु (अव्ययः)
तातद् (२.३)
नारीर्नारी (२.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
शोकसमाकुलाःशोक–समाकुल (२.३)
तस्यतद् (६.१)
तांतद् (२.१)
(अव्ययः)
मतिंमति (२.१)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
धर्मात्माधर्म–आत्मन् (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि भीस्तु ता ना री
र्दृ ष्ट्वा शो माकु लाः
स्य तां तिं ज्ञा त्वा
र्मा त्मा वाक्यब्र वीत्