७.२५.२०

ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः ।
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥

M N Dutt

Having slain their kinsmen you past brought these beautiful damsels hither, but disregarding you, O King, Madhu has carried away Kumbhīnasī.

पदच्छेदः

ज्ञातीन्ज्ञाति (२.३)
वैवै (अव्ययः)
धर्षयित्वेमास्त्वयानीताधर्षयित्वा (√धर्षय् + क्त्वा)–इदम् (१.३)–त्वद् (३.१)–आनीत (√आ-नी + क्त, १.३)
वराङ्गनाःवर–अङ्गना (१.३)
त्वाम्त्वद् (२.१)
अतिक्रम्यअतिक्रम्य (√अति-क्रम् + ल्यप्)
मधुनामधु (३.१)
राजन्राजन् (८.१)
कुम्भीनसीकुम्भीनसी (१.१)
हृताहृत (√हृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञा ती न्वैर्ष यि त्वे मा
स्त्व या नी ता राङ्ग नाः
त्वा ति क्रम्यधु ना
रा न्कु म्भी सीहृ ता