७.२५.२७

निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान् ।
धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव ॥

पदच्छेदः

निहत्यनिहत्य (√नि-हन् + ल्यप्)
राक्षसश्रेष्ठान्राक्षस–श्रेष्ठ (२.३)
अमात्यांस्तवअमात्य (२.३)–त्वद् (६.१)
संमतान्संमत (√सम्-मन् + क्त, २.३)
धर्षयित्वाधर्षयित्वा (√धर्षय् + क्त्वा)
हृताहृत (√हृ + क्त, १.१)
राजन्राजन् (८.१)
गुप्तागुप्त (√गुप् + क्त, १.१)
ह्यन्तःपुरेहि (अव्ययः)–अन्तःपुर (७.१)
तवत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नित्य राक्ष श्रे ष्ठा
मा त्यांस्त सं तान्
र्ष यि त्वाहृ ता रा
न्गु प्ता ह्य न्तःपु रे