७.२५.२८

श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः ।
यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः ।
अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥

M N Dutt

Hearing this even, O great king, we have pardoned and not slain him; an unmarried girl should be given away to her husband by her brothers, but that has not been the case, this is merely the result of your vicious actions, wicked-minded as you are. And this you have met with instantly, so the people say.

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
त्वेतन्महाराजतु (अव्ययः)–एतद् (२.१)–महत्–राज (८.१)
क्षान्तम्क्षान्त (√क्षम् + क्त, २.१)
एवएव (अव्ययः)
हतोहत (√हन् + क्त, १.१)
(अव्ययः)
सःतद् (१.१)
यस्माद्यस्मात् (अव्ययः)
अवश्यंअवश्यम् (अव्ययः)
दातव्यादातव्य (√दा + कृत्, १.१)
कन्याकन्या (१.१)
भर्त्रेभर्तृ (४.१)
हिहि (अव्ययः)
दातृभिःदातृ (३.३)
अस्मिन्न्इदम् (७.१)
एवाभिसम्प्राप्तंएव (अव्ययः)–अभिसम्प्राप्त (√अभिसम्प्र-आप् + क्त, १.१)
लोकेलोक (७.१)
विदितम्विदित (√विद् + क्त, १.१)
अस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
तेत्वद् (४.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
श्रु त्वा त्वेन्म हा रा क्षान्त मे
तो सः स्मा श्यं दा व्या
न्या र्त्रेहि दातृ भिः स्मि न्ने वा
भि सं प्रा प्तं लो केविदिस्तु ते