७.२५.२९

ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च ॥

पदच्छेदः

ततोततस् (अव्ययः)
ऽब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
दशग्रीवःदशग्रीव (१.१)
क्रुद्धःक्रुद्ध (√क्रुध् + क्त, १.१)
संरक्तलोचनःसंरक्त (√सम्-रञ्ज् + क्त)–लोचन (१.१)
कल्प्यतांकल्प्यताम् (√कल्पय् प्र.पु. एक.)
मेमद् (६.१)
रथःरथ (१.१)
शीघ्रंशीघ्रम् (अव्ययः)
शूराःशूर (१.३)
सज्जीभवन्तुसज्जीभवन्तु (√सज्जी-भू लोट् प्र.पु. बहु.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽब्र वीद्द ग्री वः
क्रु द्धः संक्त लो नः
ल्प्य तां मे थः शी घ्रं
शू राः ज्जीन्तु