७.२५.३०

भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥

पदच्छेदः

भ्राताभ्रातृ (१.१)
मेमद् (६.१)
कुम्भकर्णश्चकुम्भकर्ण (१.१)–च (अव्ययः)
येयद् (१.३)
(अव्ययः)
मुख्यामुख्य (१.३)
निशाचराःनिशाचर (१.३)
वाहनान्यधिरोहन्तुवाहन (२.३)–अधिरोहन्तु (√अधि-रुह् लोट् प्र.पु. बहु.)
नानाप्रहरणायुधाःनाना (अव्ययः)–प्रहरण–आयुध (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्रा ता मे कुम्भ र्णश्च
ये मु ख्यानि शा राः
वा नान्यधि रोन्तु
ना नाप्र णायु धाः