७.२५.३१

अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।
इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥

पदच्छेदः

अद्यअद्य (अव्ययः)
तंतद् (२.१)
समरेसमर (७.१)
हत्वाहत्वा (√हन् + क्त्वा)
मधुंमधु (२.१)
रावणनिर्भयम्रावण–निर्भय (२.१)
इन्द्रलोकंइन्द्र–लोक (२.१)
गमिष्यामिगमिष्यामि (√गम् लृट् उ.पु. )
युद्धकाङ्क्षीयुद्ध–काङ्क्षिन् (१.१)
सुहृद्वृतःसुहृद्–वृत (√वृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य तं रे त्वा
धुं रा निर्भ यम्
न्द्र लो कं मि ष्यामि
युद्ध का ङ्क्षीसु हृद्वृ तः