७.२५.३२

ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् ।
निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः ॥

पदच्छेदः

ततोततस् (अव्ययः)
विजित्यविजित्य (√वि-जि + ल्यप्)
त्रिदिवंत्रिदिव (२.१)
वशेवश (७.१)
स्थाप्यस्थाप्य (√स्थापय् + क्त्वा)
पुरंदरम्पुरंदर (२.१)
निर्वृतोनिर्वृत (१.१)
विहरिष्यामिविहरिष्यामि (√वि-हृ लृट् उ.पु. )
त्रैलोक्यैश्वर्यशोभितःत्रैलोक्य–ऐश्वर्य–शोभित (√शोभय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोवि जि त्यत्रिदि वं
शे स्थाप्यपु रं रम्
निर्वृ तोवि रि ष्यामि
त्रै लो क्यै श्वर्य शोभि तः