७.२५.३३

अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम् ।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥

पदच्छेदः

अक्षौहिणीसहस्राणिअक्षौहिणी–सहस्र (१.३)
चत्वार्युग्राणिचतुर् (१.३)–उग्र (१.३)
रक्षसाम्रक्षस् (६.३)
नानाप्रहरणान्याशुनाना (अव्ययः)–प्रहरण (१.३)–आशु (अव्ययः)
निर्ययुर्निर्ययुः (√निः-या लिट् प्र.पु. बहु.)
युद्धकाङ्क्षिणाम्युद्ध–काङ्क्षिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षौहि णी स्राणि
त्वा र्यु ग्राणिक्ष साम्
ना नाप्र णा न्याशु
निर्य यु र्युद्ध काङ्क्षि णाम्