७.२५.३४

इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च ।
रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः ॥

पदच्छेदः

इन्द्रजित्इन्द्रजित् (१.१)
त्वग्रतःतु (अव्ययः)–अग्रतस् (अव्ययः)
सैन्यंसैन्य (२.१)
सैनिकान्सैनिक (२.३)
परिगृह्यपरिगृह्य (√परि-ग्रह् + ल्यप्)
(अव्ययः)
रावणोरावण (१.१)
मध्यतःमध्यतस् (अव्ययः)
शूरःशूर (१.१)
कुम्भकर्णश्चकुम्भकर्ण (१.१)–च (अव्ययः)
पृष्ठतःपृष्ठतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्र जि त्त्वग्र तः सै न्यं
सैनि कान्परि गृह्य
रा णोध्य तः शू रः
कुम्भ र्णश्च पृष्ठ तः