७.२५.३७

दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह ।
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः ॥

पदच्छेदः

दैत्याश्चदैत्य (१.३)–च (अव्ययः)
शतशस्तत्रशतशस् (अव्ययः)–तत्र (अव्ययः)
कृतवैराःकृत (√कृ + क्त)–वैर (१.३)
सुरैःसुर (३.३)
सहसह (अव्ययः)
रावणंरावण (२.१)
प्रेक्ष्यप्रेक्ष्य (√प्र-ईक्ष् + ल्यप्)
गच्छन्तम्गच्छत् (√गम् + शतृ, २.१)
अन्वगच्छन्तअन्वगच्छन्त (√अनु-गम् लङ् प्र.पु. बहु.)
पृष्ठतःपृष्ठतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दै त्याश्च स्तत्र
कृ वै राःसु रैः
रा णं प्रेक्ष्य च्छन्त
न्व च्छन्त पृष्ठ तः