७.२५.४८

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ॥

पदच्छेदः

तस्यास्तद्तद् (६.१)–तद् (२.१)
वचनंवचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तथेत्याहतथा (अव्ययः)–इति (अव्ययः)–आह (√अह् लिट् प्र.पु. एक.)
मधुर्मधु (१.१)
वचःवचस् (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
राक्षसश्रेष्ठंराक्षस–श्रेष्ठ (२.१)
यथान्यायम्यथान्यायम् (अव्ययः)
उपेत्यउपेत्य (√उप-इ + ल्यप्)
सःतद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्या स्तद्व नं श्रु त्वा
थे त्या धुर्व चः
र्श राक्ष श्रे ष्ठं
था न्यामु पेत्य सः