७.२५.५

रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः ।
अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे ॥

M N Dutt

Having seen him (there) and embraced him by his arms the lord of Lankā said: “What are you after, O my child? Tell me the truth."

पदच्छेदः

रक्षःपतिःरक्षःपति (१.१)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
समाश्लिष्यसमाश्लिष्य (√समा-श्लिष् + ल्यप्)
(अव्ययः)
बाहुभिःबाहु (३.३)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
किम् (१.१)
इदंइदम् (१.१)
वत्सवत्स (८.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
तद्तद् (२.१)
ब्रवीहिब्रवीहि (√ब्रू लोट् म.पु. )
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षः तिः मा साद्य
मा श्लिष्य बाहु भिः
ब्र वीत्किमि दंत्स
र्त तेद्ब्र वीहि मे