७.२६.१२

तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः ।
करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत ॥

M N Dutt

Having got up and been influenced by lust he took her, shameful as she was, by the hand and smiling said.

पदच्छेदः

तांतद् (२.१)
समुत्थायसमुत्थाय (√समुत्-स्था + ल्यप्)
रक्षेन्द्रःरक्ष–इन्द्र (१.१)
कामबाणबलार्दितःकाम–बाण–बल–अर्दित (√अर्दय् + क्त, १.१)
करेकर (७.१)
गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
गच्छन्तींगच्छत् (√गम् + शतृ, २.१)
स्मयमानोस्मयमान (√स्मि + शानच्, १.१)
ऽभ्यभाषतअभ्यभाषत (√अभि-भाष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां मु त्था क्षे न्द्रः
का बा लार्दि तः
रेगृ ही त्वा च्छ न्तीं
स्म मा नोऽभ्य भा