७.२६.१६

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।
अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम् ॥

M N Dutt

Who will go to bestride today your large thigh resembling a disc of gold, encircled by a golden chain and which was like the form of a heaven.

पदच्छेदः

सुवर्णचक्रप्रतिमंसुवर्ण–चक्र–प्रतिमा (२.१)
स्वर्णदामचितंस्वर्ण–दामन्–चित (√चि + क्त, २.१)
पृथुपृथु (२.१)
अध्यारोक्ष्यतिअध्यारोक्ष्यति (√अध्या-रुह् लृट् प्र.पु. एक.)
कस्ते (१.१)–त्वद् (६.१)
ऽद्यअद्य (अव्ययः)
स्वर्गंस्वर्ग (२.१)
जघनरूपिणम्जघन–रूपिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सुर्ण क्रप्रति मं
स्वर्ण दाचि तंपृथु
ध्या रोक्ष्यति स्तेऽद्य
स्व र्गं रूपि णम्