७.२६.२०

एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥

M N Dutt

Being thus addressed, Rambhā, trembling, with folded palms, said:-Be you propitiated; it does not behave you to speak thus, who are my superior.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्ताब्रवीद्उक्त (√वच् + क्त, १.१)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
रम्भारम्भा (१.१)
वेपमानावेपमान (√विप् + शानच्, १.१)
कृताञ्जलिःकृताञ्जलि (१.१)
प्रसीदप्रसीद (√प्र-सद् लोट् म.पु. )
नार्हसे (अव्ययः)–अर्हसे (√अर्ह् लट् म.पु. )
वक्तुम्वक्तुम् (√वच् + तुमुन्)
ईदृशंईदृश (२.१)
त्वंत्वद् (१.१)
हिहि (अव्ययः)
मेमद् (६.१)
गुरुःगुरु (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्ताब्र वी द्र म्भा
वे मा नाकृ ताञ्ज लिः
प्र सी नार्ह सेक्तु
मीदृ शं त्वंहि मेगु रुः