७.२६.२१

अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।
धर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते ॥

M N Dutt

Rather should you protect me if any body else try to oppress me. Virtually I am your daughterin-law. I speak to you the truth.

पदच्छेदः

अन्येभ्योअन्य (५.३)
ऽपिअपि (अव्ययः)
त्वयात्वद् (३.१)
रक्ष्यारक्ष्य (√रक्ष् + कृत्, १.१)
प्राप्नुयांप्राप्नुयाम् (√प्र-आप् विधिलिङ् उ.पु. )
धर्षणंधर्षण (२.१)
यदियदि (अव्ययः)
धर्मतश्चधर्म (५.१)–च (अव्ययः)
स्नुषास्नुषा (१.१)
तेत्वद् (६.१)
ऽहंमद् (१.१)
तत्त्वम्तत्त्व (२.१)
एतद्एतद् (२.१)
ब्रवीमिब्रवीमि (√ब्रू लट् उ.पु. )
तेत्वद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्ये भ्यो ऽपित्व या क्ष्या
प्राप्नु यांर्ष णंदि
र्म श्चस्नु षा ते ऽहं
त्त्व मेद्ब्र वीमि ते