७.२६.२८

स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः ।
तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् ॥

पदच्छेदः

तद् (१.१)
हिहि (अव्ययः)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
धर्मात्माधर्म–आत्मन् (१.१)
साम्प्रतंसांप्रतम् (अव्ययः)
मत्समुत्सुकःमद्–समुत्सुक (१.१)
तन्नतद् (२.१)–न (अव्ययः)
विघ्नंविघ्न (२.१)
सुतस्येहसुत (६.१)–इह (अव्ययः)
कर्तुम्कर्तुम् (√कृ + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
मुञ्चमुञ्च (√मुच् लोट् म.पु. )
माम्मद् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि तिष्ठति र्मा त्मा
साम्प्र तंत्स मुत्सु कः
न्न वि घ्नंसु स्ये
र्तुर्हसि मुञ्च माम्