७.२६.२९

सद्भिराचरितं मार्गं गच्छ राक्षसपुंगव ।
माननीयो मया हि त्वं लालनीया तथास्मि ते ॥

पदच्छेदः

सद्भिर्सत् (३.३)
आचरितंआचरित (√आ-चर् + क्त, २.१)
मार्गंमार्ग (२.१)
गच्छगच्छ (√गम् लोट् म.पु. )
राक्षसपुंगवराक्षस–पुंगव (८.१)
माननीयोमाननीय (√मानय् + अनीयर्, १.१)
मयामद् (३.१)
हिहि (अव्ययः)
त्वंत्वद् (१.१)
लालनीयालालनीय (√लालय् + अनीयर्, १.१)
तथास्मितथा (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
तेत्वद् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्भि रारि तं मा र्गं
च्छ राक्ष पुं
मा नी यो या हि त्वं
ला नी या थास्मि ते