७.२६.३०

एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः ।
निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बली ।
काममोहाभिसंरब्धो मैथुनायोपचक्रमे ॥

पदच्छेदः

एवंएवम् (अव्ययः)
ब्रुवाणांब्रुवाण (√ब्रू + शानच्, २.१)
रम्भांरम्भा (२.१)
तांतद् (२.१)
धर्मार्थसहितंधर्म–अर्थ–सहित (२.१)
वचःवचस् (२.१)
निर्भर्त्स्यनिर्भर्त्स्य (√निः-भर्त्सय् + ल्यप्)
राक्षसोराक्षस (१.१)
मोहात्मोह (५.१)
प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
बलाद्बल (५.१)
बलीबलिन् (१.१)
काममोहाभिसंरब्धोकाम–मोह–अभिसंरब्ध (√अभिसम्-रभ् + क्त, १.१)
मैथुनायोपचक्रमेमैथुन (४.१)–उपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
वंब्रु वा णां म्भां तां र्मार्थ
हि तं चः नि र्भर्त्स्य राक्ष सो मो हा
त्प्रति गृह्य लाद्ब ली का मो हा
भि सं ब्धो मैथु ना योक्र मे