७.२६.३४

सा तु निश्वसमाना च वेपमानाथ साञ्जलिः ।
तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे ॥

M N Dutt

Sighing heavily and trembling she with folded palms, related to him everything from the beginning to the end.

पदच्छेदः

सातद् (१.१)
तुतु (अव्ययः)
निश्वसमानानिश्वसमान (√नि-श्वस् + शानच्, १.१)
(अव्ययः)
वेपमानाथवेपमान (√विप् + शानच्, १.१)–अथ (अव्ययः)
साञ्जलिः (अव्ययः)–अञ्जलि (१.१)
तस्मैतद् (४.१)
सर्वंसर्व (२.१)
यथातथ्यम्यथातथ्यम् (अव्ययः)
आख्यातुम्आख्यातुम् (√आ-ख्या + तुमुन्)
उपचक्रमेउपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सातु निश्व मा ना
वे मा ना साञ्ज लिः
स्मै र्वं थाथ्य
मा ख्यातुमुक्र मे