७.२६.३८

याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो ।
तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥

M N Dutt

He was again prayed by me, O lord, saying “I am your daughter-in-law." But neglecting that he ravished me.

पदच्छेदः

याच्यमानोयाच्यमान (√याच् + शानच्, १.१)
मयामद् (३.१)
देवदेव (८.१)
स्नुषास्नुषा (१.१)
तेत्वद् (६.१)
ऽहम्मद् (१.१)
इतिइति (अव्ययः)
प्रभोप्रभु (८.१)
तत्तद् (२.१)
सर्वंसर्व (२.१)
पृष्ठतःपृष्ठतस् (अव्ययः)
कृत्वाकृत्वा (√कृ + क्त्वा)
बलात्बल (५.१)
तेनास्मितद् (३.१)–अस्मि (√अस् लट् उ.पु. )
धर्षिताधर्षित (√धर्षय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

याच्य मा नो या दे
स्नु षा तेऽहमि तिप्र भो
त्स र्वं पृष्ठ तः कृ त्वा
ला त्ते नास्मिर्षि ता