७.२६.४४

यदा त्वकामां कामार्तो धर्षयिष्यति योषितम् ।
मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥

पदच्छेदः

यदायदा (अव्ययः)
त्वकामांतु (अव्ययः)–अकाम (२.१)
कामार्तोकाम–आर्त (१.१)
धर्षयिष्यतिधर्षयिष्यति (√धर्षय् लृट् प्र.पु. एक.)
योषितम्योषित् (२.१)
मूर्धामूर्धन् (१.१)
तुतु (अव्ययः)
सप्तधासप्तधा (अव्ययः)
तस्यतद् (६.१)
शकलीभविताशकलीभविता (√शकली-भू लुट् प्र.पु. एक.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दात्व का मां का मा र्तो
र्ष यिष्यति योषि तम्
मू र्धातुप्त धास्य
लीवि ता दा