७.२६.८

रावणः सुमहावीर्यः कामबाणवशं गतः ।
विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ॥

पदच्छेदः

रावणःरावण (१.१)
सुमहावीर्यःसु (अव्ययः)–महत्–वीर्य (१.१)
कामबाणवशंकाम–बाण–वश (२.१)
गतःगत (√गम् + क्त, १.१)
विनिश्वस्यविनिश्वस्य (√विनि-श्वस् + ल्यप्)
विनिश्वस्यविनिश्वस्य (√विनि-श्वस् + ल्यप्)
शशिनंशशिन् (२.१)
समवैक्षतसमवैक्षत (√समव-ईक्ष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा णःसु हा वी र्यः
का बा शं तः
वि नि श्वस्यवि नि श्वस्य
शि नं वैक्ष