७.२७.१४

न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः ।
हन्तुं युधि समासाद्य वरदानेन दुर्जयः ॥

पदच्छेदः

(अव्ययः)
तावद्तावत् (अव्ययः)
एषएतद् (१.१)
दुर्वृत्तःदुर्वृत्त (१.१)
शक्योशक्य (१.१)
दैवतदानवैःदैवत–दानव (३.३)
हन्तुंहन्तुम् (√हन् + तुमुन्)
युधियुध् (७.१)
समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
वरदानेनवर–दान (३.१)
दुर्जयःदुर्जय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता दे दु र्वृ त्तः
क्यो दै दा वैः
न्तुंयुधि मा साद्य
दा ने दुर्ज यः