७.२७.१६

ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह ।
नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् ॥

पदच्छेदः

ब्रवीषिब्रवीषि (√ब्रू लट् म.पु. )
यत्यद् (२.१)
तुतु (अव्ययः)
मांमद् (२.१)
शक्रशक्र (८.१)
संयुगेसंयुग (७.१)
योत्स्यसीतियोत्स्यसि (√युध् लृट् म.पु. )–इति (अव्ययः)
(अव्ययः)
नैवाहं (अव्ययः)–एव (अव्ययः)–मद् (१.१)
प्रतियोत्स्येप्रतियोत्स्ये (√प्रति-युध् लृट् उ.पु. )
तंतद् (२.१)
रावणंरावण (२.१)
राक्षसाधिपम्राक्षस–अधिप (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र वीषित्तु मांक्र
संयु गे योत्स्य सीति
नै वा हंप्रति यो त्स्ये तं
रा णं राक्ष साधि पम्