७.२७.२२

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।
युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया ॥

M N Dutt

In the interval issued out for another encounter the heroic and grim-visaged Räksasas, Rāvana's councillors.

पदच्छेदः

एतस्मिन्न्एतद् (७.१)
अन्तरेअन्तर (७.१)
शूराशूर (१.३)
राक्षसाराक्षस (१.३)
घोरदर्शनाःघोर–दर्शन (१.३)
युद्धार्थम्युद्ध–अर्थ (२.१)
अभ्यधावन्तअभ्यधावन्त (√अभि-धाव् लङ् प्र.पु. बहु.)
सचिवासचिव (१.३)
रावणाज्ञयारावण–आज्ञा (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्नन्त रे शू रा
राक्ष सा घोर्श नाः
यु द्धार्थभ्य धान्त
चि वा रा णाज्ञ या