७.२७.२९

ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान् ।
नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥

M N Dutt

Then the Rākşasas, with thousands of terrible weapons, began to belabour the deities in the encounter.

पदच्छेदः

ततस्तेततस् (अव्ययः)–तद् (१.३)
राक्षसाःराक्षस (१.३)
शूराशूर (१.३)
देवांस्तान्देव (२.३)–तद् (२.३)
समरेसमर (७.१)
स्थितान्स्थित (√स्था + क्त, २.३)
नानाप्रहरणैर्नाना (अव्ययः)–प्रहरण (३.३)
घोरैर्घोर (३.३)
जघ्नुःजघ्नुः (√हन् लिट् प्र.पु. बहु.)
शतसहस्रशःशत–सहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ते राक्ष साः शू रा
दे वां स्तान्स रेस्थि तान्
ना नाप्र णै र्घो रै
र्ज घ्नुःस्र शः