७.२७.३१

एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः ।
नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत ॥

पदच्छेदः

एतस्मिन्न्एतद् (७.१)
अन्तरेअन्तर (७.१)
शूरःशूर (१.१)
सुमालीसुमालिन् (१.१)
नामनाम (अव्ययः)
राक्षसःराक्षस (१.१)
नानाप्रहरणैःनाना (अव्ययः)–प्रहरण (३.३)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
रणम्रण (२.१)
एवाभ्यवर्ततएव (अव्ययः)–अभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मि न्नन्त रे शू रः
सु मा ली ना राक्ष सः
ना नाप्र णैः क्रु द्धो
मे वाभ्यर्त