७.२७.३५

संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम् ।
विक्रमेण महातेजा वारयामास संयुगे ॥

पदच्छेदः

संवृतःसंवृत (√सम्-वृ + क्त, १.१)
स्वैर्स्व (३.३)
अनीकैस्तुअनीक (३.३)–तु (अव्ययः)
प्रहरन्तंप्रहरत् (√प्र-हृ + शतृ, २.१)
निशाचरम्निशाचर (२.१)
विक्रमेणविक्रम (३.१)
महातेजामहत्–तेजस् (१.१)
वारयामासवारयामास (√वारय् प्र.पु. एक.)
संयुगेसंयुग (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

संवृ तः स्वै नी कैस्तु
प्र न्तंनि शा रम्
विक्र मे हा ते जा
वा या मा संयु गे