७.२८.१

सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः ॥

पदच्छेदः

सुमालिनंसुमालिन् (२.१)
हतंहत (√हन् + क्त, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
वसुनावसु (३.१)
भस्मसात्कृतम्भस्मसात्कृत (√भस्मसात्-कृ + क्त, २.१)
विद्रुतंविद्रुत (√वि-द्रु + क्त, २.१)
चापि (अव्ययः)–अपि (अव्ययः)
स्वंस्व (२.१)
सैन्यंसैन्य (२.१)
लक्षयित्वार्दितंलक्षयित्वा (√लक्षय् + क्त्वा)–अर्दित (√अर्दय् + क्त, २.१)
शरैःशर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु मालि नं तं दृ ष्ट्वा
सु नास्म सात्कृ तम्
विद्रु तं चा पि स्वं सै न्यं
क्ष यि त्वार्दि तं रैः