७.२८.२

ततः स बलवान्क्रुद्धो रावणस्य सुतो युधि ।
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत ॥

पदच्छेदः

ततःततस् (अव्ययः)
तद् (१.१)
बलवान्बलवत् (१.१)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
रावणस्यरावण (६.१)
सुतोसुत (१.१)
युधियुध् (७.१)
निवर्त्यनिवर्त्य (√नि-वर्तय् + ल्यप्)
राक्षसान्राक्षस (२.३)
सर्वान्मेघनादोसर्व (२.३)–मेघनाद (१.१)
व्यतिष्ठतव्यतिष्ठत (√वि-स्था लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः वा न्क्रु द्धो
रास्यसु तोयुधि
निर्त्य राक्ष सा न्स र्वा
न्मे ना दोव्य तिष्ठ