७.२८.१३

ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च ।
शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान् ।
सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः ॥

पदच्छेदः

ततःततस् (अव्ययः)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
शस्त्राणिशस्त्र (२.३)
सारवन्तिसारवत् (२.३)
महान्तिमहत् (२.३)
(अव्ययः)
शतघ्नीस्तोमरान्शतघ्नी (२.३)–तोमर (२.३)
प्रासान्प्रास (२.३)
गदाखड्गपरश्वधान्गदा–खड्ग–परश्वध (२.३)
सुमहान्त्यद्रिशृङ्गाणिसु (अव्ययः)–महत् (२.३)–अद्रि–शृङ्ग (२.३)
पातयामासपातयामास (√पातय् प्र.पु. एक.)
रावणिःरावणि (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तःप्र गृह्य स्त्राणि सान्ति
हान्ति घ्नी स्तो रा न्प्रा सा
न्ग दाड्गश्व धान्सु हान्त्य
द्रि शृ ङ्गाणि पा या मा रा णिः