७.२८.१६

नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा ।
तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् ॥

M N Dutt

The deities or the Rākşasas, they could not recognise one another. And being distressed they ran about on all sides.

पदच्छेदः

नाभ्यजानंस्तदान्योन्यं (अव्ययः)–अभ्यजानन् (√अभि-ज्ञा लङ् प्र.पु. बहु.)–तदा (अव्ययः)–अन्योन्य (२.१)
शत्रून्शत्रु (२.३)
वावा (अव्ययः)
दैवतानिदैवत (२.३)
वावा (अव्ययः)
तत्रतत्र (अव्ययः)
तत्रतत्र (अव्ययः)
विपर्यस्तंविपर्यस्त (१.१)
समन्तात्समन्तात् (अव्ययः)
परिधावितम्परिधावित (√परि-धाव् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नाभ्य जा नंस्त दा न्यो न्यं
त्रू न्वा दै तानि वा
त्रत्रवि र्य स्तं
न्तात्परि धावि तम्