७.२८.१८

गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् ।
मातामहोऽर्यकस्तस्य पौलोमी येन सा शची ॥

पदच्छेदः

गृहीत्वागृहीत्वा (√ग्रह् + क्त्वा)
तंतद् (२.१)
तुतु (अव्ययः)
नप्तारंनप्तृ (२.१)
प्रविष्टःप्रविष्ट (√प्र-विश् + क्त, १.१)
तद् (१.१)
महोदधिम्महत्–उदधि (२.१)
मातामहोमातामह (१.१)
ऽर्यकस्तस्यआर्यक (१.१)–तद् (६.१)
पौलोमीपौलोमी (१.१)
येनयद् (३.१)
सातद् (१.१)
शचीशची (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृ ही त्वा तंतु प्ता रं
प्र वि ष्टः हो धिम्
मा ता होऽर्य स्तस्य
पौ लो मी ये सा ची