७.२८.१९

प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् ।
व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः ॥

पदच्छेदः

प्रणाशंप्रणाश (२.१)
दृश्यदृश्य (√दृश् + क्त्वा)
तुतु (अव्ययः)
सुरासुर (१.३)
जयन्तस्यातिदारुणम्जयन्त (६.१)–अति (अव्ययः)–दारुण (२.१)
व्यथिताश्चाप्रहृष्टाश्चव्यथित (√व्यथ् + क्त, १.३)–च (अव्ययः)–अप्रहृष्ट (१.३)–च (अव्ययः)
समन्ताद्समन्तात् (अव्ययः)
विप्रदुद्रुवुःविप्रदुद्रुवुः (√विप्र-द्रु लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र णा शं दृश्यतुसु रा
न्त स्याति दारु णम्
व्यथि ता श्चाप्र हृ ष्टाश्च
न्ता द्विप्र दुद्रु वुः