७.२८.२०

रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥

M N Dutt

Thereupon Rāvana's son, enraged and encircled by his own powerful followers, pursued the celestials emitting loud cries.

पदच्छेदः

रावणिस्त्वथरावणि (१.१)–तु (अव्ययः)–अथ (अव्ययः)
संहृष्टोसंहृष्ट (√सम्-हृष् + क्त, १.१)
बलैःबल (३.३)
परिवृतःपरिवृत (√परि-वृ + क्त, १.१)
स्वकैःस्वक (३.३)
अभ्यधावतअभ्यधावत (√अभि-धाव् लङ् प्र.पु. एक.)
देवांस्तान्मुमोचदेव (२.३)–तद् (२.३)–मुमोच (√मुच् लिट् प्र.पु. एक.)
(अव्ययः)
महास्वनम्महत्–स्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा णिस्त्व सं हृ ष्टो
लैःरिवृ तःस्व कैः
भ्य धा दे वां स्ता
न्मु मो हास्व नम्