७.२८.२२

स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो मनोजवः ॥

M N Dutt

By Mātali was brought, the celestial, highly dreadful, huge and quick-coursing chariot, that was ready.

पदच्छेदः

तद् (१.१)
तुतु (अव्ययः)
दिव्योदिव्य (१.१)
महाभीमःमहत्–भीम (१.१)
सज्जसज्ज (१.१)
एवएव (अव्ययः)
महारथःमहत्–रथ (१.१)
उपस्थितोउपस्थित (√उप-स्था + क्त, १.१)
मातलिनामातलि (३.१)
वाह्यमानोवाह्यमान (√वाहय् + शानच्, १.१)
मनोजवःमनोजव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु दि व्यो हा भी मः
ज्ज हा थः
स्थि तो मालि ना
वाह्य मा नो नो वः