७.२८.२४

नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः ।
ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् ॥

M N Dutt

The Gandharvas began to play on various instruments and the Apsarās began to dance.

पदच्छेदः

नानावाद्यानिनाना (अव्ययः)–वाद्य (१.३)
वाद्यन्तवाद्यन्त (√वादय् प्र.पु. बहु.)
स्तुतयश्चस्तुति (१.३)–च (अव्ययः)
समाहिताःसमाहित (√समा-धा + क्त, १.३)
ननृतुश्चाप्सरःसंघाःननृतुः (√नृत् लिट् प्र.पु. बहु.)–च (अव्ययः)–अप्सरस्–संघ (१.३)
प्रयातेप्रयात (√प्र-या + क्त, ७.१)
वासवेवासव (७.१)
रणम्रण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना ना वा द्यानि वा द्यन्त
स्तुश्च माहि ताः
नृ तु श्चाप्स रः सं घाः
प्र या ते वा वे णम्