७.२८.४५

तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥

M N Dutt

And the Rākşasa-chief Daśānana, having long arms, also assailed Indra with hundreds of shafts discharged off his bow.

पदच्छेदः

तथैवतथा (अव्ययः)–एव (अव्ययः)
(अव्ययः)
महाबाहुर्महत्–बाहु (१.१)
दशग्रीवोदशग्रीव (१.१)
व्यवस्थितःव्यवस्थित (√व्यव-स्था + क्त, १.१)
शक्रंशक्र (२.१)
कार्मुकविभ्रष्टैःकार्मुक–विभ्रष्ट (√वि-भ्रंश् + क्त, ३.३)
शरवर्षैर्शर–वर्ष (३.३)
अवाकिरत्अवाकिरत् (√अव-कृ लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै हा बाहु
र्द ग्री वोव्यस्थि तः
क्रं कार्मु वि भ्र ष्टैः
र्षै वाकि रत्