७.२९.१५

न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ।
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥

M N Dutt

It is not possible to slay him now, for he shall not meet with death in consequence of the boon. So let us make him captive-and we should all exert to that end.

पदच्छेदः

(अव्ययः)
ह्येषहि (अव्ययः)–एतद् (१.१)
हन्तुंहन्तुम् (√हन् + तुमुन्)
शक्योशक्य (१.१)
ऽद्यअद्य (अव्ययः)
वरदानात्वर–दान (५.१)
सुनिर्भयःसु (अव्ययः)–निर्भय (१.१)
तद्तद् (२.१)
ग्रहीष्यामहेग्रहीष्यामहे (√ग्रह् लृट् उ.पु. द्वि.)
रक्षोरक्षस् (२.१)
यत्तायत्त (√यत् + क्त, १.३)
भवतभवत (√भू लोट् म.पु. द्वि.)
संयुगेसंयुग (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ह्ये न्तुं क्योऽद्य
दा नात्सु निर्भ यः
द्ग्र ही ष्या हे क्षो
त्ता संयु गे