७.२९.२

ततस्तु देवसैन्येन राक्षसानां महद्बलम् ।
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥

पदच्छेदः

ततस्तुततस् (अव्ययः)–तु (अव्ययः)
देवसैन्येनदेव–सैन्य (३.१)
राक्षसानांराक्षस (६.३)
महद्महत् (१.१)
बलम्बल (१.१)
दशांशंदशन्–अंश (१.१)
स्थापितंस्थापित (√स्थापय् + क्त, १.१)
युद्धेयुद्ध (७.१)
शेषंशेष (१.१)
नीतंनीत (√नी + क्त, १.१)
यमक्षयम्यम–क्षय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तु दे सै न्ये
राक्ष सा नांद्ब लम्
शां शं स्थापि तं यु द्धे
शे षं नी तंक्ष यम्