७.२९.३

तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः ।
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥

पदच्छेदः

तस्मिंस्तुतद् (७.१)–तु (अव्ययः)
तमसातमस् (३.१)
नद्धेनद्ध (√नह् + क्त, ७.१)
सर्वेसर्व (१.३)
तेतद् (१.३)
देवराक्षसाःदेव–राक्षस (१.३)
अन्योन्यंअन्योन्य (२.१)
नाभ्यजानन्त (अव्ययः)–अभ्यजानन्त (√अभि-ज्ञा लङ् प्र.पु. बहु.)
युध्यमानाःयुध्यमान (√युध् + शानच्, १.३)
परस्परम्परस्पर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मिंस्तु सा द्धे
र्वे ते दे राक्ष साः
न्यो न्यं नाभ्य जान्त
युध्य मा नाःस्प रम्